|
|
|
ओं नमो भगवति पराशक्ते चण्डि कपालिनि योगिनि अट्टाट्टहासिनि ओड्याणपीठनिवासिनि, एह्येहि पीठे महापीठे श्रीं ह्रीं ऐं सौः सर्वकार्यार्थसाधिनि, योगिनि, योगपीठस्थिते, त्र्यक्षरि त्रिपदे, त्रिकोणनिवासिनि, वेतालापस्मार यक्षराक्षस भूतप्रेतपिशाचोपद्रवनिवारिणि, ऐं एह्येहि पुत्रमित्रकलत्रबान्धवभ्रातृपरिजनसहितस्य मम वज्रशरीरं कुरु कुरु, स्वकुलस्थितं राजकुलस्थितं सुषुप्तिस्थितं जाग्रत्स्थितं दिक्षुस्थितं गृहस्थितं बाह्यस्थितं अन्तःस्थितं मां गृहपरिवारान् रक्ष रक्ष, सर्वशङ्का विनाशय विनाशय, एकाक्षरि द्व्यक्षरि त्र्यक्षरि पञ्चाक्षरि, कालमृत्युं निवारय निवारय, बन्धय बन्धय, स्रावय स्रावय, ग्रासय ग्रासय, ओड्याणपीठप्रसादिनि, जालन्धरपीठप्रसादिनि, कामगिरिपीठप्रसादिनि, देवि त्वत्प्रसादं कुरु कुरु, एकाहिक द्व्याहिक त्र्याहिक चातुर्थिकादि सर्वज्वरान् नाशय नाशय सर्वं, भर्त्सय भर्त्सय विषज्वरं नाशय नाशय, ऐं एह्येहि इन्द्रवज्रेण यमदण्डेन गरुडपक्षवातेन महाकालीस्वरूपिणि सर्वानर्थानापदो विद्रावय विद्रावय निर्भयं कुरु कुरु, मां रक्ष रक्ष, ममाभयं कुरु कुरु, सर्वविद्यावाग्धोरणीं कुरु कुरु, ऐं क्लीं सौः सौः क्लीं ऐं, मम सर्वजनवशं कुरु कुरु, मम दुरितान् हुं फट् स्वाहा ।
इति श्री बाला महामाला ।

|


|